________________
४१२
स्वोपत्तिः । अतो भवेऽणेयणौ स्याताम् । अवम् । अवेयम् ॥१३२॥
चतुर्मासान्नाम्नि ।६।३।१३३ ।
अस्मात्तत्रभवेऽण् स्यात् । नाम्नि । चातुर्मासी आषाढ्यादि पौर्णमासी ॥१३३ ॥
यज्ञे ञ्यः। ६।३।१३४ । चतुर्मासात्तत्रभवे यज्ञे ज्यः स्यात । चातुर्मास्य यज्ञाः ॥ १३४॥ गम्भीरपञ्चजनबाहदेवात् ।६।३।१३५।
एभ्यस्तत्रभवे व्यः स्यात् । गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः ॥ १३५॥ परिमुखादेरव्ययीभावात् । ६।३।१३६।
अस्मात्तत्रभवे ध्यः स्यात् । पारिमुख्यः । पारिहनव्यः ॥१३६॥ अन्तः पूर्वादिकण । ६।३।१३७। अन्तः पूर्वपदादव्ययीभावात्तत्रभवे इकण स्यात् । आन्तरगारिकः॥ पर्यऽनोर्गामात् । ६।३।१३८ ।
आभ्यां परो यो ग्रामस्तदन्तादव्ययीभावात्तत्रभवे इकण स्यात् । पारिग्रामिकः । आनुग्रामिकः ॥१३८॥ उपाज्जानुनीविकर्णात्प्रायेण।६।३।१३९।
उपायेजान्वादयस्तदन्तादव्ययीभावादिकम् स्यात् । प्रायेण तत्रभवे । औपजानुका सेवकः । औपनीविकं ग्रीवादाम । औपकर्णिकः सूचकः ॥१३९॥
रूढावन्तःपुरादिकः । ६ ।।१४०।