SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य नाम्न्युदकात् । ६ । ३ । १२५ । उदकात्सप्तम्यन्ताद्भवेऽर्थे यो नाम्नि स्यात् । उदक्या रजखला ॥ मध्यादिनणणेयामोऽन्तश्च । ६ । ३ । १२६ । ४१२ मध्यात्सप्तम्यन्ताद्भवे एते स्युः तद्योगे च मोन्तः । माध्यन्दिनाः । माध्यमः । मध्यमीयः ॥ १२६ ॥ जिह्वामूलाङ्गुलेश्चेयः । ६ । ३ । १२७ । आभ्यां सप्तम्यन्ताभ्यां मध्याच्च भवे ईयः स्यात् । जिह्वामूलीयः । अङ्गुलीयः । मध्यीयः ॥ १२७ ॥ वर्गान्तात । ६ । ३ । १२८ । आस्मात्सप्तम्यन्ताद्भवे ईयः स्यात् । कवर्गीयो वर्णः ॥ १२८ ॥ ईनयौ चाऽशब्दे । ६ । ३ । १२९ । वर्गान्तात्सप्तम्यन्ताद्भवे एतावीयश्च स्युः । नतुशब्दे । भरतवगणः । भरतवर्ण्यः । भरतवर्गीयः । शब्देठ कवर्गीयः ॥ १२९ ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण । ६ । ३।१३० । एभ्यः सप्तम्यन्तेभ्यो भवे एयण स्यात् । दार्त्तेयं जलम् । कौक्षेयो व्याधिः । कालशेयं तम् । बास्तेयं पुरीषम् । आहेयं विषम् ॥ १३० ॥ आस्तेयम् । ६ । ३ । १३१ । अस्तेर्धन विद्यमानार्थात्तत्रभवे एयण् स्यात् । असृजो वा अस्त्यादेशश्च । आस्तेयम् ॥ १३१ ॥ ग्रीवातोऽण च । ६ । ३ । १३२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy