SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघवृत्तिः। उप्ते ।६।३ । ११८।। सचम्यन्तात्कालार्थादुप्सेऽर्थे यथाविहितं प्रत्ययाः स्युः। शारदा यवाः। हेमनाः ॥ ११८॥ आश्वयुज्या अकञ्। ६।३।११९। . आस्मात्सप्तम्यम्तादुप्तेऽर्थेऽकञ स्यात् । आश्वयुजका माषाः ॥११९॥ ग्रीष्मवसन्ताद्वा।६।३।१२० । आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् । श्रेष्मकम् । श्रेष्म सस्यम् । वासन्तकम् । वासन्तम् ॥ १२० ॥ व्याहरति मृगे।६।३।१२१ । सप्तम्यन्तात्कालार्थादयाहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् । नैशिको नैशो वा शृगालः । प्रादोषिकः पादोषो वा । मृगइति किम् । वसन्ते व्याहरति कोकिलः ॥१२१॥ जयिनि च ।६।३।१२२। सप्तम्यन्तात्कालार्थाजयिन्यर्थे यथाविहितं प्रत्ययः स्यात् । निशाभवमभ्ययनं निशा। तत्रजयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । वार्षिकः ॥ १२२ ॥ भवे । ६।३।१२३। सप्तम्यन्ताद्भवेऽर्थे यथाविहितमणेयणादयः स्युः। स्रौनः । औत्सः। नादेयः । ग्राम्यः ॥१२३॥ दिगादिदेहांशाधः ।६।३।१२४। दिगादेदेहावयवार्थाच सप्तम्यन्ताद्भवे यः स्यात्।दिश्यः। अप्सव्यः। मूर्दन्यः ॥ १२४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy