SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। . ४०९ श्रविष्ठाषाढादीयण च ।६।३।१०५। आभ्यां सप्तम्यन्ताभ्यां जाते ईयण श्च नाम्नि स्यात् । श्राविष्ठीयः। अविष्ठः । आषाढीयः । आषाढः ॥ १०५॥ - फल्गुन्याष्टः।६।३।१०६। अस्मात्सप्तम्यन्ताजाते टो नाम्नि स्यात् । फल्गुनः ॥ १०६॥ बहुलाऽनुराधापुष्यार्थपुनर्वसुहस्तविशाखा स्वातेलृप्।६।३।१०७।। एभ्यः सप्तम्यन्तेभ्यः परस्य माऽणो जातेऽर्थे लुब् स्यात् । नाम्नि । बहुलः । अनुराधः । पुष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः शिशुः ॥ १०७। चित्रारेवतीरोहिण्याः स्त्रियाम्।६।३।१०८। एभ्वः सप्तम्यन्तेभ्यो भाऽणो जाते स्त्रियां नाम्नि लुन् स्यात् । चित्रा स्त्री। रेवती । रोहिणी ॥ १०८॥ बहुलमन्येभ्यः।६।३।१०९। श्रविष्ठादिभ्योऽन्येभ्यो भाऽर्थेभ्यः सप्तम्यन्तेभ्यो भाऽणो जातेऽर्थे लुब बहुलं नानि स्यात् । अभिजित् । आभिजितः। अश्वयुक् । आश्वयुजः। कचिनित्यम् । अश्विनः । क्वचिन्न स्यात् । माघः ॥ १०९ ॥ स्थानान्तगोशालखरशालात् ।६।३।११०॥ एभ्यः सप्तम्यन्तेभ्यः परस्य जाते प्रत्ययस्य नानि लुब् स्यात् । गोस्थानः । गोशालः । खरशालः शिशुः ॥ ११०॥ वत्सशालाद्वा।६।३।१११ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy