SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४०८ हेम शब्दानुशासनस्य अस्मात्सप्तम्यन्तात् कुशले कः स्यात् । अश्मकः। अशनिकः॥९७॥ जाते । ६ । ३ । ९८ । सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयः स्युः । माथुरः औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ ९८ ॥ प्रावृष इकः । ६ । ३ । ९९ । अस्मात्सप्तम्यन्ताज्जाते इकः स्यात् । प्रावृषिकः ॥ ९९ ॥ नाम्नि शरदोऽकञ । ६ । ३ । १०० । शरदः सप्तम्यन्तजातेऽकञ् स्यात् नाम्नि । शारदका दर्भाः । नाम्नीति किम् । शारद सस्यम् ॥ १०० ॥ सिन्ध्वऽपकरात्काऽणौ । ६ । ३ । १०१ । आभ्यां सप्तम्यन्ताभ्याञ्जाते कोऽण्च स्यात् नाम्नि । सिन्धुकः । सैन्धवः । अपकरकः । आपकरः ॥ १०१ ॥ पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करा दकः । ६ । ३ । १०२ । एभ्यः सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ १०२ ॥ पथः पन्थ च । ६ । ३ । १०३ । पथः सप्तम्यन्ताज्जातेऽको नाम्नि स्यात् । तद्योगे पन्थः । पन्थकः ॥ १०३ ॥ अश्च वामावास्यायाः । ६ । ३ । १०४ । अस्मात्सप्तम्यन्ताज्जाते अः अकश्च नाम्नि वा स्यात् । अमावास्यः । अमावास्यकः । आमावास्यः ।। १०४ ।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy