SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलवृत्तिः । भर्त्रसन्ध्यादेरण । ६ । ३ । ८९ । भं नक्षत्रम् । तदर्थादृत्वर्थात्सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौषः । प्रैष्मः । सान्ध्यः । आमावास्यः ॥ ८९ ॥ संवत्सरात्फलपर्वणोः । ६ । ३ । ९० । अस्मात्फले पर्वणि च शेषेऽर्थेऽण स्यात् । सांवत्सरं फलं पर्व वा ॥ । हेमन्ताद्वा तलुक्च । ६ । ३ । ९१ अस्माच्छेषेऽर्थेऽण वा स्यात । तद्योगे च तो वा लुक । हैमनम् । हैमन्तम् । हैमन्तिकम् ॥ ९१ ॥ ४०७ प्रावृष एण्यः । ६ । ३ । ९२ । अस्माच्छेषेऽर्थे एण्यः स्यात् । प्रावृषेण्यः ॥ ९२ ॥ स्थामाजिनान्ताल्लुप् । ६ । ३ । ९३ । स्थामान्तादऽजिना न्ताच्च परस्य शैषिकस्य लुप स्यात् । अश्वत्था. मा । सिंहाइजिनः ॥ ९३ ॥ तत्र कृतलब्धक्रीतसम्भूते । ६ । ३ । ९४ । तत्रेति सप्तम्यान्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । औसः । बाह्यः । नादेयः राष्ट्रियः ॥ ९४ ॥ कुशले । ६ । ३ । ९५ । सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयः स्युः । माथुरः। नादेयः । पथोऽकः । ६ । ३ । ९६ । सप्तम्यन्तात्पथः कुशले कः स्यात् । पथकः ॥ ९६ कोऽश्मादेः । ६ । ३ । ९७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy