SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ हेम शब्दानुशासनस्य वर्षायाः कालविशेषार्थाच्च शेषेऽर्थे इकण स्यात् । वार्षिकः। मासिकः॥ शरद: श्राद्धे कर्म्मणि । ६ । ३ । ८१ । अस्मात्पितृकार्ये शेषेऽर्थे इकण् स्यात् । शारदिकं श्राद्धम् ॥ ८१ ॥ नवा रोगात । ६ । ३।८२ । शरदो रोगे आतपे च शेषेऽर्थे इकण् वा स्यात् । शारदिकः। शारदो रोगः आतपो वा ।। ८२ ॥ निशाप्रदोषात् । ६ । ३ । ८३ । आभ्यां शेषेऽर्थे इकण्वा स्यात् । नैशिकः । नैशः। प्रादोषिकः प्रादोषः ॥ श्वसस्तादिः । ६ । ३ । ८४ । ४०६ श्वस' कालार्थात् शेषेऽर्थे तादिरिक‍ वा स्यात् । शौवस्तिकः । इत्रस्त्यः ॥ ८४ ॥ चिरपरुत्परारे नः | ६ । ३ । ८५ । 1 एभ्यः शेषेऽर्थे नो वा स्यात् । चिरत्नम् । परुत्नम् । परारित्रम् । चिरंतनम् । परुत्तनम् । परारितनम् ॥ ८५ ॥ जिত पुरो नः । ६ । ३ । ८६ । पुराशब्दात्कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम् । पुरातनम् ॥ पूर्वाह्नाऽपराह्नात्तनट् । ६ । ३।८७। आम्यां शेषेऽर्थे तनडू वा स्यात् । पूर्वाह्णेतनः । अपराह्णेतनः । पौर्वाह्निकः । आपराह्निकः ॥ ८७ ॥ सायञ्चिरंप्राह्णेप्रगेऽव्ययात् | ६|३|८८ | एभ्योऽव्ययाच कालार्थाच्छेषेऽर्थे तनइनित्य स्यात् । भायंतनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् दिवातनम् ॥ ८८ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy