________________
स्वोपाल कृत्तिः। ग्रामराष्ट्राऽशादणिकणौ । ६।३। ७२।
प्रामराष्ट्रयो गार्थाद दिक्पूर्वाच्छेषेऽणिकणौ स्याताम् । प्रामस्य राष्ट्रस्य वा । पौर्वार्द्धः । पौर्वार्धिकः ॥ ७२ ॥ . पराऽवराऽधमोत्तमादेर्यः ।६।३।७३।
परादिपूर्वादाच्छषेऽर्थे यः स्यात् । परार्धम् । अवरायम् । अधमायम् । उत्तमार्यम् ॥७३॥
अमोन्ताऽवोऽधसः।६।३।७४ । 'अन्तादेः शेषेऽर्थेऽमः स्यात् । अन्तमः । अवमः । अधमः ॥७४॥ पश्चादाद्यन्ताग्रादिमः।६।३।७५॥
एम्यः शेषऽर्थे इम: स्यात् । पश्चिमः। आदिमः। अन्तिमः ।अग्रिमः ।। __ मध्यान्मः ।६।३।७६ । मध्यशब्दाच्छेषेऽर्थे मः स्यात् । मध्ये जातो मध्यमः ॥७६ ॥ मध्यउत्कर्षाऽपकर्षयोरः ।६।३।७७।
अनयोर्मध्यार्थयोर्मध्याच्छेषेऽर्थे अ स्यात् । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् ॥ ७७॥ अध्यात्मादिभ्य इकण । ६।३। ७८ । - एभ्यः शेषेऽर्थे इकण स्यात् । आध्यात्मिकम् । आधिदैविकम्॥७॥ समानपूर्वलोकोत्तरपदात् ।६।३। ७९।
समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः । ऐहलौकिकः ॥ ७९ ॥
वर्षाकालेभ्यः । ६।३। ८०।