SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिः । गर्वोत्तरपदादीयः । ६ । ३ । ५७ । अस्माद्देशार्थाच्छेषे ईयः स्यात् । श्वाविद्गतयः ॥ ५७ ॥ कटपूर्वात्प्राचः । ६ । ३ । ५८ । कटपूर्वपदात्प्राग्देशार्थाच्छेषे ईयः स्यात् । कटग्रामीयः ॥ ५८ ॥ 1 कखोपान्त्यकन्थापलदनगरग्रामहदोत्तर ४०३ पदाद्दो: । ६ । ३ । ५९ । कुपान्त्यात खुपान्त्यात्कन्थाद्यत्तरपदाच्च देशार्थाद्दोः शेषेऽर्थे ईयः स्यात् । आरोहणकीयः । कौटशिखीयः । दाक्षिकन्थीयः । दाक्षिपलदीयः । दाक्षिनगरीयः । माहकिग्रामीयः । दाक्षिहदीयः ॥ ५९ ॥ पर्वतात् । ६ । ३ । ६० । अस्माद्देशार्थाच्छेषे ईयः स्यात् । पर्वतीयो राजा ॥ ६० ॥ अनरे वा । ६ । ३ । ६१ । पर्वताद्देशार्थानृवर्जे ईयो वा स्यात् । पर्वतीयानि । पार्वतानि फलानि ॥ ६१ ॥ पर्णकृकणाद्भारद्वाजात् । ६ । ३ । ६२ । आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईयः स्यात् । पर्णीयः॥ कृकणीयः॥ गहादिभ्यः । ६ । ३ । ६३ । एभ्यो यथासम्भवं देशार्थेभ्यः शेषे ईयः स्यात् । गहीयः । अन्तस्थीयः ॥ ६३ ॥ पृथिवीमध्यान्मध्यमश्चास्य । ६ । ३ । ६४ । अस्माद्देशार्थाच्छेषे ईयः स्यात् । प्रकृतेश्च मध्यमादेशः । मध्यमीयः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy