________________
हैमशब्दानुशासनस्य कच्छाद्युत्तरपदाद्देशार्थाच्छेऽकञ स्यात् । मारकच्छकः । काण्डाग्नकः । ऐन्दुवक्रकः । बाहुवर्तकः ॥ ५० ॥ अरण्यात्पथि न्यायाध्यायभनरवि
हारे।६।३।५१। अरण्याद्देशार्थात्पथ्यादौ शेषेऽकञ् स्यात् । आरण्यकः पन्थाः न्यायोऽध्यायः इमो नरो विहारो वा ॥ ५१ ॥
गोमये वा।६।३। ५२ । अरण्याद्देशाच्छेषे गोमयेऽर्थेऽका वा स्यात् । आरण्यका गोमयाः आरण्या वा ॥ ५२॥
कुरुयुगन्धराद्वा।६।३।५३ ।
आभ्यां देशार्थाम्यां शेषेऽकझ वा स्यात् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥ ५३ ॥
साल्वाद्गोयवाग्वपत्तौ।६।३।५४।
साल्लाद्देशार्थाद्गवियवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थेऽका स्यात्। साखको गौः । साल्विका यवागूः । साल्वको ना ॥ ५४ ॥ .
कच्छादेन॒नृस्थे । ६।३। ५५ ।
देशानिरिनृस्थे च शेषऽर्थेऽका स्यात्। काच्छको ना।काच्छकमस्य स्मितम् ॥ ५५ ॥
कोपान्त्याच्चाऽण् । ६।३।५६ । कोपान्त्यात्कच्छादेश्च देशार्थाच्छेषेण स्यात् । आर्षिकः। कान्छ।। सैन्धवः ॥ ५६॥