________________
* स्वोपज्ञलघुतिः इदन्तात्माग्देशार्थाहोः शेषेऽकन स्यात् । काफन्दका ॥ ४१ ।।
रोपान्त्यात् । ६।३।४२ । रोपान्त्यात्प्राचो दोः शेषेऽका स्यात् । पाटलिपुत्रकः ॥ ४२ ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्।६।३।४३।
- प्रस्थपुरवहान्तेभ्यः योपान्त्यादन्वर्थाच देशवृत्तेदोंः शेषेऽका स्यात् । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । साङ्काश्यकः । पारेधन्वकः । .. राष्ट्रभ्यः । ६।३ । ४४। राष्ट्रऽर्थेभ्यो दुभ्यः शेषेऽकञ स्यात् । आभिसारकः ॥ ४४ ॥
बहुविषयेभ्यः ।६।३।४५। राष्ट्रेभ्यो बहुविषयेभ्यः शेषेऽकञ स्यात् । आङ्गकः ॥ ४५ ॥
धुमादेः।६।३।४६।.. अस्माद्देशवृत्तेः शेषेऽकञ् स्यात् । धौमकः । षाडण्डकः ॥ १६ ॥
सौवीरेषु कलात् । ६।३।४७। सौवीरदेशात्कूलाच्छेषेऽकञ् स्यात् । कौलकः ॥ ४७ ॥
समुद्रान्नृनावोः। ६।३।४८।। समुद्राद्देशार्थाच्छेषेऽका स्यात् । नरि नावि चार्थे । सामुद्रको ना। सामुद्रिको नौः । सामुद्रमन्यत् ॥ ४८॥
नगरात्कुत्सादाक्ष्ये । ६।३।४९।
नगरादेशार्थाच्छपेऽका स्यात् । कुत्सायां दाक्ष्ये च गम्ये । चौरा हि नागरकाः । दक्षा हि नागरकाः ॥ ४९ ॥ कच्छाग्निवक्रवर्तोत्तरपदात् ।६।३।५० ।