SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३९९ स्वोषज्ञलघुवृत्तिा। उदगग्रामाद्यकृल्लोम्नः ।६।३।२५। उदग्ग्रामवाचिनो यकृल्लोमनशब्दाच्छषेऽर्थे ऽज्ञ स्यात् । याकृल्लोमः। उदग्ग्रामादिति किम् । अन्यस्मादण याकृल्लोमनः ॥२५॥ गोष्ठीतैकीनकेतीगोमतीशूरसेनवाहीकरोम कपटच्चरात् । ६।३।२६ । एभ्यः शेषेऽर्थेऽञ स्यात् । गौष्ठः। तैकः। नेकेतः।गोमतःशौरसेनः । वाहीकः । रोमकः । पाटच्चरः ॥ २६ ॥ शकलादेर्यञः।६।३।२७। अस्माद्यान्ताच्छेषेऽर्थे ऽञ स्यात् । शाकलाः । काण्वाः ॥ २७ ॥ वृद्धेञः।६।३।२८। वृद्धान्ताच्छेषेऽर्थेऽज्ञ स्यात। दाक्षाः। वृद्धेति किम् । सौतङ्गमीयः ॥ न द्विस्वरात्प्रागभरतात् ।६।३।२९ । प्राग्गोत्रार्थाद्भरतगोत्रार्थाच . द्विस्वरादृद्धजन्तादञ् न स्यात् । चैकीयाः । काशीयाः। द्विस्वरादिति किम् । पानागाराः॥२९॥ , भवतोरिकणीयसौ। ६।३। ३० । भवच्छब्दाच्छेषऽर्थे इकाईयसौ स्याताम् । भावत्कम् । भवदीयम्॥३०॥ परजनराज्ञोऽकीयः । ६।३।३१। एभ्यः शेषेऽर्थेऽकीयः स्यात् । परकीयः । जनकीयः । राजकीयः॥ दोरीयः।६।३।३२ । दुसंज्ञकाच्छेषेऽर्थे ईयः स्यात् । देवदत्तीयः । तदीयः ॥ ३२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy