SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ स्वोपशलघुवृत्तिः । ग्रामादीनञ्च । ६ । ३ । ९। ग्रामाच्छेषेऽर्थे ईन यश्च स्यात् । ग्रामीणः । ग्राम्यः ॥ ९ ॥ कत्र्यादेश्चैकञ् । ६ । ३ । १० । कत्र्यादिभ्यो ग्रामाच्च शेषेएयकञ् स्यात् । कात्रेयकः । पौष्करेयकः । ग्रामेयकः ॥ १० ॥ कुण्डयदिभ्यो यलुक्च । ६ । ३ ।११। कुण्ड्यदिभ्यः शेषेऽर्थे एयकञ् स्यात् । तद्योगे च यो लुक | कौण्डेयकः । कौयकः ॥ ११ ॥ ३९७ कुलकुक्षिग्रीवाच्छ्वाऽस्यलङ्कारे । ६।३।१२। एभ्यः शेषेऽर्थे यथासङ्ख्यमेयकञ् स्यात् । कौलेयकः श्वा । कौक्षेयकोऽसिः । ग्रैवेयकोऽलङ्कारः ।। १२ ।। दक्षिणापश्चात्पुरसस्त्यण् । ६ । ३ । १३ । एभ्यः शेषेऽर्थे त्यण् स्यात् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ १३ ॥ वल्युर्दिपर्दिकापिश्याष्टायनम् । ६ । ३ । १४ । एभ्यः शेषेऽर्थे टायन स्यात् । वाल्हायनः । औदायिनः। पार्दायनः । कापिशायनी द्राक्षा ॥ १४॥ रंकोः प्राणिनि वा । ६ । ३ । १५ । रंकुशब्दात्प्राणिनिविशिष्टे शेषेऽर्थे टायनण स्यात् । राङ्कवायणः । राङ्कवो गौः । कम्बलस्तु राङ्कवः ।। ९५ ।। क्वेहामात्रतसस्त्यच् । ६ । ३ । १६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy