SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ३९५ तत्रेति सप्तम्यन्तात्पात्रार्थादुद्धृते ऽर्थे यथाविहितं प्रत्ययः स्यात् । शारावः ओदनः ॥ १३८ ॥ स्थण्डिलाच्छेते व्रती । ६ । २ । १३९ । स्थण्डिलात्सप्तम्यन्ताच्छेते व्रतीत्यर्थे यथाविहितं प्रत्ययः स्यात् । स्थाण्डिलो भिक्षुः ॥ १३९ ॥ संस्कृते भक्ष्ये । ६ । २ । १४० । सप्तम्यन्तात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् । भ्राष्ट्राः अपूपाः। शूलोखाद्यः । ६ । २ । १४१ । आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः स्यात् । शूल्यम् । उख्यं मांसम् ॥ १४९ ॥ क्षीरादेयण । ६ । २ । १४२ । क्षीरात्सप्रम्यन्तात्संस्कृते मध्ये एयण स्यात् । क्षैरेयी यवागूः ॥ १४२ ॥ । दन इकण । ६ । २ । १४३ । दनः सप्तम्यन्तात्संस्कृते मध्ये इकण् स्यात् । दाधिकम् ॥ १४३ ॥ वोदश्वितः । ६ । २ । १४४ । अस्मात्सप्तम्यन्तात्संस्कृते भक्ष्येऽर्थे इकण वा स्यात् । औदश्वित्कम् । औदश्वितम् ।। १४४ ॥ क्वचित् । ६ । २ । १४५ । अपत्यादिभ्योऽन्यत्रार्थे क्वचिद्यथाविहितं प्रत्ययः स्यात् । चाक्षुषं रूपम् । आखो रथः ॥ १४५ ॥ } इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy