SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य विषये एव प्रयुज्यते। कठेन प्रोक्तं वेदं विदन्त्यऽधीयते वा कठाः। ताण्डपेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः ॥ १३०॥ तेन च्छन्ने रथे।६।२।१३१ । तेनेति तृतीयान्ताच्छन्नेऽर्थे यथाविहितं प्रत्ययः स्यात् । वास्त्रोरथः ॥ १३१ ॥ . पाण्डुकम्बलादिन् । ६।२।१३२ । अस्माट्टान्ताच्छन्ने रथे इन् स्यात् । पाण्डुकम्बली रथः ॥ १३२ ॥ दृष्टे साम्नि नाम्नि ।६।२।१३३। तेनति टान्तादृष्टं सामेत्यर्थे यथाविहितं प्रत्ययः स्यात् संज्ञायाम् । क्रौञ्चं साम । कालेयम् ॥ १३३॥ गोत्रादकवत् । ६।२।१३४ । गोत्रवाचिनष्टान्तादृष्टं सामेत्यर्थेऽङ्क इव प्रत्ययः स्यात् औपगवर्क साम ।। १३४ ॥ वामदेवाद्यः। ६।२।१३५ । अस्माद्यान्तादृष्टे साम्नि यः स्यात् । वामदेव्यं साम ॥ १३५॥ डिद्वाऽण । ६।२।१३६ । दृष्टं सामेत्यर्थे ऽण डिडा स्यात् । औशनम् । औशन सम् ॥१३६॥ वा जाते द्विः।६।२।१३७। जातेऽर्थे योऽण् द्धिर्विहितः सडिदा स्यात् । शातभिषः।शातभिषजः। द्विरिति किम् । हैमवतः ॥ १३७ ॥ . तत्रोद्धृतेपात्रेभ्यः । ६।२।१३८ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy