SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। अस्मादेत्त्यधीते वेत्यर्थे इन् स्यात् । अनुब्राह्मणी ॥ १२३॥ शतषष्टेः पथ इकट् । ६।२।१२४ । आभ्यां परो यः पन्थास्तदन्तादेत्त्यधीते वेत्यर्थे इकट् स्यात् । शतपथिकी । षष्टिपथिकः ॥ १२४ ॥ पदोत्तरपदेभ्य इकः । ६।२।१२५ । पदशब्द उत्तरपदं यस्य तस्मात्पदात् पदोत्तरपदाच वेत्त्यधीते वेत्यर्थे इकः स्यात् । पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥ १२५ ॥ पदक्रमशिक्षामीमांसासाम्नोऽकः।६।२।१२६। एभ्यो वेत्त्यधीते वेत्यर्थेऽकः स्यात् । पदका ।क्रमकः । शिक्षकः । मीमांसकः । मामकः ॥ १२६ ॥ ससर्वपुर्वाल्लुप् । ६।२।१२७। सपूर्वात्सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । सवार्तिकः। सर्ववेदः ॥ १२७॥ सङ्ख्याकात्सूत्रे । ६।२।१२८ । सङ्ख्यायाः परो यः कस्तदन्तात्सूत्रार्थादेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । अष्टकाः । पाणिनीयाः ॥ १२८॥ प्रोक्तात् । ६।२।१२९ । प्रोक्तार्थप्रत्ययान्तादेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोतमेन प्रोक्तं गौतमम् । तदेत्त्यऽधीते वा गौतमः ॥ १२९ ॥ . . वेदेन्बाह्मणमत्रैव । ६ । २ । १३०। प्रोक्तप्रत्ययान्तं वेदवाचिइन्नन्तं ब्राह्मणवाचि चाऽत्रैव वेत्त्यधीते वेति ५०
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy