SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृप्तिः । ३८९ चातुरर्थिको देशनाम्नि इकः स्यात् । कुमुदिकम् । इकटिकम् ॥ ९६ ॥ अश्वत्थादेरिकण । ६ । २ । ९७ । चातुरर्थिको देशनाम्नि इकण् स्यात् । आश्वत्थकम् । कौमु दिकम् ॥ ९७ ॥ सास्य पौर्णमासी । ६ । २ । ९८ । सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः स्यात् । प्रथमान्तं चेत् पौर्णमासी । पौषोमासो ऽर्द्धमासो वा ॥ ९८ ॥ आग्रहायण्यश्वत्थादिकण । ६ । २ । ९९ । आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् । तचेत्पौर्णमासी नाम्नि | आग्राहायणिकोमासोऽर्द्धमासो वा । एवमाश्वत्थिकः ॥९९॥ चैत्री कार्त्तिकी फाल्गुनीश्रवणाद्वा । ६ । २ । १०० । एभ्यः सास्यपौर्णमासीति विषये नाम्नि इकण् वा स्यात् । चैत्रिकः चैत्रोमासोऽर्द्धमासो वा । एवं कार्तिकिकः । कार्त्तिकः फाल्गुनिकः । फाल्गुनः । श्रावणिकः । श्रावणः ॥ १०० ॥ देवता । ६ । २ । १०१ । देवतार्थात्प्रथमान्तात् षष्ठयर्थे यथाविहितं प्रत्ययः स्यात । जैनः | आग्नेयः । आदित्यः ॥ १०१ ॥ पैगाङ्क्षीपुत्रादेरीयः । ६ । २ । १०२ । एम्यः सास्य देवतेति विषये ईयः स्यात् । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयं हविः ॥ १०२ ॥ शुक्रादियः । ६ । २ । १०३ । शुकात्सास्य देवतेति विषये इयः स्यात् । शुक्रियं हविः ॥ १०३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy