________________
३९०
हैमशब्दानावस्य शतरुद्रात्तौ। ६।२।१०४। अस्मात्सास्य देवतेति विषये ईयः इयश्च स्यात् । शतरुद्रीयम् । शतरुद्रियम् ॥ १०४ ॥ अपोनपादपान्नपातस्तृचातः।६।२।१०५॥
आभ्यां सास्य देवतेति विषये तौ स्याताम् । तद्योगे चातस्तृच् । अपोनप्त्रीयम् । अपोनप्त्रियम् । अपान्नप्त्रीयम् । अपान्नप्तियम् ॥१०५॥
महेन्द्राहा।६।२।१०६। अस्मात्सास्य देवतेति विषये तौ वा स्याताम् । महेन्द्रीयम् । महेन्द्रियम् । माहेन्द्रं वा हविः ॥ १०६ ॥
कसोमाट्ट्यण । ६।२।१०७।
आभ्यां सास्य देवतेति विषये व्यण् स्यात् । कार्यम् । सौम्यं हविः।। द्यावापृथिवीशुनासीराग्नीषोममरुत्ववास्तोपतिगृहमेधादीययौ । ६।२।१०८ ।
एभ्यः सास्य देवतेति विषये ईययौ स्याताम् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शुनासीर्यम् । अमीषोमीयम् । अग्नीषोम्यम् । मरुत्वतीयम् । मरुत्वत्यम् । वास्तोष्पतीयम् । वा-तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ १०८॥ वाय्वतुपित्त्रुषसो यः।६।२।१०९।
एभ्यः सास्य देवतेति विषये यः स्यात् । वायव्यम् । ऋतव्यम् । पित्र्यम् । उपस्यम् ॥ १०९॥ महाराजप्रोष्ठपदादिकण । ६।२।११०॥