SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलावृत्तिः। न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । श्रेयान । श्रेयांसौ । महान् । महान्तौ ॥ ८६ ॥ इन्हन्पूषार्यम्णः शिस्योः । १।४।८७ इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् । दण्डीनि । स्रग्वीणि । दण्डी। सखी। भ्रूणहानि। भ्रूणहा। बहुपूषाणि। पूषा। स्वर्यमाणि । अर्यमा । शिस्योरेवेति किम् । दण्डिनौ । वृत्रहणौ । पूषणौ। अर्यमणौ ॥ ८७ ॥ - अपः।१।४।८८। अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः।स्वापौ॥ ८८॥ . नि वा । १।४।८९। , अपः स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् । स्वाम्पि स्वम्पि । बहाम्पि बहम्पि ॥ ८९ ॥ अभ्वादेरत्वसः सौ। १।४। ९० । अवन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । यवमान । अप्सराः । गोमन्तम् स्थूलशिरसम् वेच्छन् गोमान स्थूलशिराः । अभ्वादेरिति किम् । पिण्डग्रः ॥ ९ ॥ क्रुशस्तुनस्तृच पुंसि । १।४। ९१ । कुशोयस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि । कोष्टा । क्रोष्टारौ । पुंसीति किम् । कृशक्रोष्ट्रनि वनानि ॥ ९१ ॥ टादौ स्वरे वा । १।४।१२।। ..टादौ स्वरादौ परे क्रुशस्तुनस्तृज् वा स्यात् पुंसि । क्रोष्ट्रा क्रोष्टुना । कोष्ट्रोः क्रोवोः ॥ ९२ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy