________________
हैमशब्दानुशासनस्य
वोशनसोनश्चामन्त्र्ये सौ । १ । ४।८० ।
आमन्त्र्यवृत्तेरुशनसो नलुकौ सौ परे वा स्याताम् । हेउशनन् उशन उशनः । आमन्त्र्य इति किम् । उशना ॥ ८० ॥
३६
उतोऽनडुच्चतुरो वः । १ । ४ । ८१ ।
आमन्त्र्यवृत्त्योरनडुचतुरांरुतः सौ परे वः स्यात् । हेअनड्वन् ! प्रियचत्वः । हेअतिचत्वः ॥ ८१ ॥
वाः शेषे । १ । ४ । ८२ ।
आमन्त्र्यविहितात्सेरन्यो घुदशेषस्तस्मिन्परे अनडुच्चतुरोरुतो वाः स्यात् । अनड्वान् । अनड्वाहौ । प्रियचत्वाः । प्रियचत्वारौ । शेष इति किम् । हेअनड्वर । हेप्रियचत्वः || ८२ ॥
सख्युरितोऽशावेत् । १ । ४ । ८३ ।
सख्युरिदन्तस्य शिवर्जे शेषेत्रुटि परे ऐत् स्यात् । सखायौ । सखायः ॥ सखायम् । इत इति किम् । सख्यौ स्त्रियौ । अशाविति किमु । अतिसखीनि । शेष त्येव | हंसखे ॥ ८३ ॥
ऋदुशनस्पुरुदंशोनेहसश्च सेर्डाः । १।४।८४ |
ऋदन्तादृशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डाः स्यात् । पिता । अतिपिता । कर्त्ता । उशना । पुरुदंक्षा । अनेहा । सखा ॥ ८४ ॥ नि दीर्घः । १ । ४ । ८५ ।
शेषेघुटि परे योनस्तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा । राजानौ । राजानः । राजानम् । वनानि । कर्तृणि। शेष इत्येव । हेराजन् ॥
न्स्महतोः । १ । ४ । ८६ ।
v