________________
स्पोपहरवृत्तिः। पुंसोः पुमन्स् । १।४।७३। पुंसोः पुमन्म घुटि स्यात् । पुमान् । पुमांसौ। पुमांसः। प्रियपुमान् । प्रियपुमांसि ॥ ७३ ॥
ओत औः । १।४। ७४। ___ ओतो घुटि परे औः स्यात् । गौः। गावौ। द्यौः। घावो । प्रियद्यावौ। ओत इति किम् चित्रगुः ।। ७४ ॥
आ अम्शसोऽता।१।४।७५।
ओतोऽमशसोरतासह आः स्यात्। गाम् । सुगाम् । गाः । द्याम् । अतिद्याम् । द्याः । सुद्याः ॥ ७५ ॥. पथिन्मथिनभुक्षः सौ।१।४। ७६ ।
एषां नान्तानामन्तस्य सौ परे आः स्यात् । पन्थाः। हेपन्थाः। मन्थाः। हेमन्थाः। ऋभुक्षाः। हेमुक्षाः। नान्तनिर्देशादिह न स्यात् । पन्थानमैच्छत् पथीः॥७६ ॥
एः।१।४।७७। पथ्यादीनां नान्तानामितो घुटि परे आः स्यात् । पन्थाः । पन्थानौ। पन्थानः। पन्थानम् । सुपन्थानि कुलानि । मन्थाः। ऋभुक्षाम नाम्तनिर्देशादिह न स्यात् । पथ्यौ। पथ्यः॥ ७ ॥
थोन्थ । १।४। ७८ । पथिन्मथिनोर्नान्तयोस्थस्य घुटि परेन्थ् स्यात्। तथैवोदाहृतम् ॥७८॥ । इन ङीस्वरे लुक् ।१।४। ७९ ।
पथ्यादीनां नान्तानां इत्यामघुदस्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुलेवा । पथः। सुमथी स्त्री कुले वा। मथः । अनुमुक्षी सेना कुल्ले वा । ऋभुक्षः ॥ ७९ ॥