SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य तदत्राऽस्ति । ६ । २ । ७० । तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात् प्रथमान्तञ्चदस्तीति प्रत्ययान्तं चेदेशनाम । औदुम्बरं पुरम् ॥ ७० ॥ ३८६ तेन निर्वृत्ते च । ६ । २ । ७१ । तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे यथाविहितं प्रत्ययः स्यात् । देशनाम्नि | कौशाम्बी ॥ ७१ ॥ नद्यां मतुः । ६ । २ । ७२ । निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् । नद्यन्दिशनाम्नि । उदुम्बरावती ॥ ७२ ॥ मध्वादेः । ६ । २ । ७३ । म्यार्थिको देशनाम्नि मतुः स्यात् । मधुमान् । विसवान् ॥ नडकुमुदवतसमहिषाडित् । ६ । २ । ७४ । एम्योडित मतुश्चातुरर्थिको देशनाग्नि स्यात् । नड्वान् । कुमुद्वान् । वेतस्वान | महिष्मान् ॥ ७४ ॥ नडशादाद्वल: । ६ । २ । ७५ । आभ्यां चातुरर्थिको डिलो देशनाम्नि स्यात् । नड्वलम् । शाड् वलम् ॥ ७५ ॥ शिखायाः । ६ । २ । ७६ । अस्माच्चातुरर्थिको देशनाम्नि वलः स्यात् । शिखावलं पुरम् ॥७६॥ शिरीषादिककणौ । ६ । २ । ७७ । अस्माद्देशनानि चातुरर्थिकाविककणौ स्याताम् । शिरीषिकः । - "शरीषकः ॥ ७७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy