SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३८५ - - स्वोपज्ञलघुवृत्तिः। पितृमातुर्व्यडुलं भ्रातरि ।६।२।२। आभ्यां भ्रातर्यर्थे यथासङ्ख्यं व्यडुलौ स्याताम् । पितृव्यः। मातुलः॥ पित्रोर्डामहट् ।६।२।६३। पितृगातृभ्यां मातापित्रो महट् स्यात् । पितामहः । पितामही । मातामहः । मातामही ।। ६३ ॥ अवेर्दुग्धे सोढदूसमरीसम् । ६।२।६४। . अवेर्दग्धे ऽर्थे एते स्युः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ ६ ॥ राष्ट्रेऽनङ्गादिभ्यः।६।२।६५ । - अङ्गादिवर्जात्षष्ठयन्तादाष्ट्रऽर्थे ऽण स्यात् । शैवम् । अङ्गादिवर्जनं किम् । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥ ६५ ॥ राजन्यादिभ्योऽकन ।६।२।६६ । एभ्यो राष्ट्रेऽकञ स्यात् । राजन्यकम् । दैवयातवकम् ॥६६ ॥ . वसातेा । ६।२।६७। अस्माद्राष्ट्रे कन्वा स्यात् । वासातकम् । वासातं राष्ट्रम् ॥ ६७॥ भौरिक्यैषु कार्यादेविंधभक्तम् ।६।२।६८। भौरिक्यादेराष्ट्र विध ऐषुकार्यादेश्च भक्तः स्यात् । भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारस्यायनभक्तम् ॥ ६८ ॥ निवासाऽदूरभवे इति देशे नाम्नि।६२।६९। षष्ठयन्तान्निवासाऽदूरभवयोर्यथाविहितं प्रत्ययः स्यात् । तदन्तं चेटूढम् । देशनाम शैवम् । वैदिशं पुरम् ॥ ६९॥..
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy