SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३८४ हैमशम्दानुशासनस्य नाम्नि कः।६।२।५४ । पिष्टाद्विकारे नाम्नि कः स्यात् । पिष्टिका ॥ ५४॥ ह्योगोदोहादीनन हियगुश्वास्य ६२५५। अस्माद्विकारे नाम्नीना स्यात् तद्योगे च प्रकृते हियङ्गुः । हैयनवीनं नवनीतं घृतं वा । नाम्नीत्येव । ह्योगोदोहं तक्रम् ॥ ५५ ॥ अपोयवा।६।२०५६। अपोविकारे यवा स्यात् । आप्यम् । अम्मयम् ॥ ५६ ॥ लुब्बहुलं पुष्पमले।६।२।५७। विकारेऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप स्यात् । मल्लिका पुष्पम् । विदारी मूलम् । बहुलमिति किम् । वारणं पुष्पम् । ऐरण्डं मूलम् ॥ ५७॥ । फले।६।२।५८ । विकारेऽवयवे चार्थे प्रत्ययस्य लुप स्यात् । आमलकम ॥ ५८॥ प्लक्षादेरण । ६।२।५९। एभ्यो विकारेऽवयवे वा फले ऽण् स्यात् । प्लाक्षम् । आश्वत्थम् ॥ - जम्ब्वा वा।६।२।६० । जम्ब्वा विकारे ऽवयवे वा फले ऽण् वा स्यात् । जाम्बवम्। जम्बु । जम्बूः ॥ ६०॥ नद्विरद्रुवयगोमयफलात् ।६।२।६१। द्रुवयगोमयौ फलार्थं च मुक्त्वाऽन्यस्मादिकारावयवयोदिः प्रत्ययो न स्यात् । कापोतस्य विकारोऽवयवोवेति मयट् न स्यात् । अद्भुवयेत्यादीति किम् । द्रौवयं खण्डम् । गौमयं भस्म । कापित्थो रसः ॥ ६१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy