SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २८३ स्वीपज्ञलघुतिः। भस्ममयम्। भास्मनम्। अभक्ष्याच्छादन इति किम् । मौद्गः सूपः। कार्पासः पटः ॥ ४६॥ शरदर्भकूदीतृणसोमवल्वजात् ।६।२।४७) एभ्योऽभक्ष्याच्छादने विकारऽवयवे च नित्यं मयट् स्यात् । शरमयम्। दर्भमयम् । कूदीमयम । तृणमयम् । सोममयम् । वल्वजमयम् ॥ ४७॥ एकस्वरात् ।६।२।४८ । अस्माद्भक्ष्याच्छादनवर्जे विकारे ऽवयवे च नित्यं मयद स्यात् । वाङ्मयम् ॥ ४८॥ दोरमाणिनः । ६।२।४९। • अपाण्यर्थादोरभक्ष्याच्छादने विकारेऽवयवे च मयट् स्यात् । आम्रमयम् । अप्राणिन इति किम् । चापम् । चापमयम् ॥ ४९॥ गोः पुरीषे । ६।२।५०। गोः पुरीषेऽर्थे मयट स्यात् । गोमयम् । पयस्तु गव्यम् ॥ ५० ॥ वीहेः पुरोडाशे ।६।२।५१। बीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः। पुरोडाश इति किम् । त्रैह ओदनः । त्रैहं भस्म ॥ ५१ ॥ तिलयवादनाम्नि । ६।२।५२। आभ्यां विकारेऽवयवेचानाम्नि मयट् स्यात् । तिलमयम् । यवमयम् । अनाम्नीति किम् । तैलम् । यावः ॥ ५२ ॥ पिष्टात् ।६।२।५३। पिष्टादिकारेऽनाम्नि मयट् स्यात् । पिष्टमयम् ॥ ५३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy