SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ नि . ३८१ .एषु समूहे च पुरुषादेयज्ञ स्यात् । पौरुषेयो ग्रन्थः। पौरुषेयं पथ्यम् । पौरुषेयो वधो विकारो वा । पौरुषेयः समूहः ॥ २९ ॥ विकारे । ६।२।३० । षष्ठयन्ताद्विकारे यथाविहितं प्रत्ययाः स्युः । आश्मनः। आश्मः ॥ प्राण्यौषधिवृक्षेभ्योऽवयवे च ।६।२।३१। एभ्यः षष्ठ्यन्तेभ्योविकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि मांसं वा । दौर्व काण्डं भस्म वा । एवं बैल्वम् ॥३१॥ तालाद्धनुषि । ६।२।३२ । तालाद्धनुषि विकारे ऽण स्यात् । तालं धनुः । धनुषीति किम् । तालमयं काण्डम् ॥ ३२॥ त्रपुजतोः षोन्तश्च ।६।२।३३। आभ्यां विकारे ऽण स्यात् षान्तः । त्रापुषम् । जातुषम् ॥ ३३ ॥ शम्या लः।६।२।३४ । . शम्याविकारे ऽायवे चाऽण स्यात् तद्योगे लान्तः। शामीलं भस्म। शामीली शाखा ॥ ३४॥ पयोद्रोर्यः। ६।२।३५ । आभ्यां विकारे यः स्यात् । पयस्यम् द्रव्यम् ॥ ३५ ॥ उष्ट्रादक । ६।२।३६ । उष्ट्राद्विकारे ऽवयवे चा ऽकज्ञ स्यात् । औष्ट्रकं मांसमङ्गं वा॥३६॥ उमोर्णाद्वा।६।२।३७। आभ्यां विकारे ऽवयवे चाऽकञ् वा स्यात् । औमकम् । औमम् । और्णकम् । और्णः कम्बलः ॥ ३७॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy