SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३८० हैमशब्दानुशासनस्य पर्धाः समूहे ड्वण स्यात् । पार्शम् ॥ २० ॥ ईनोऽन्हः क्रतो।६।२।२१। अह्नः समूहे कतावीनः स्यात् । अहीनः क्रतुः । आइमन्यत् ॥ पृष्ठाद्यः । ६।२।२२। पृष्ठात्समूहे ऋतौ यः स्यात् । पृष्ठ्यः क्रतुः ॥ २२॥ चरणाद्धर्मवत् । ६।२।२३। कादेर्द्धर्मे इव समूहे प्रत्ययाः स्युः । यथा कठानां धर्मः काठक, तथा समूहेऽपि ॥ २३ ॥ गोरथवातात्त्रल्कटयललम् ।६।२।२४। एभ्यः समूहे यथासङ्ख्यमेते स्युः। गोत्रा । स्थकट्या । वातूलः ॥ पाशादेश्च ल्यः । ६।२।२५। अस्माद् गवादेश्व समूहे ल्यः स्यात् । पाश्य । तृण्या । गव्या । रथ्या। वात्या ॥ २५ ॥ श्वादिभ्योऽञ् । ६।२।२६ । एभ्यः समूहेऽञ स्यात् । शौवम् । आह्नम् ॥ २६ ॥ खलादिभ्यो लिन् । ६।२।२७। एभ्यः समूहे लिन् स्यात् । खलिनी । ऊकिनी ॥ २७ ॥ ग्रामजनबन्धुगजसहायात्तल् ।६।२।२८। एभ्यः समूहे तल् स्यात् । ग्रामता । जनता । बन्धुता । गजता। सहायता ॥ २८ ॥ पुरुषात्कृतहितवधविकारे चैयादा।२९।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy