SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ३७९ राजन्यराजपुत्रादकञ् । ६ । २ । १२ । गोत्रप्रत्ययान्तादुक्षादेश्व समूहेऽकञ स्यात् । गार्गकम्। औक्षकम् । वात्सकम् । औष्ट्रकम् । वार्द्धकम् । आजकम् । औरभ्रकम् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् ॥ १२ ॥ केदाराण्ण्यश्च | ६ | २२१३| केदारात्समूहे ण्योऽकञ् च स्यात् । कैदार्यम् । कैदारकम् ॥ १३ ॥ कवचिहस्त्यऽचित्ताच्चेकण | ६ | २ | १४ | कवचिहस्तिभ्यामचित्तार्थात्केदाराच्च समूहे इकण स्यात् । कावचिकम् । हास्तिक । आपूपिकम् । कैदारिकम् ॥ १४ ॥ धेनोरनञः । ६ । २ । १५ । पूर्वात्समूहे इकण स्यात् । धैनुकम् । अनत्र इति किम् । आधै ॥ २५ ॥ ब्राह्मणमाणववाडवाद्यः । ६।२।१६ । एभ्यः समूहे यः स्यात् । ब्राह्मण्यम् | माणव्यम् । वाडव्यम् ॥ १६ ॥ गणिकाया ण्यः । ६ । २ । १७ । अस्मात्समूहे ण्यः स्यात् । गाणिक्यम् ॥ १७ ॥ केशाद्वा । ६ । २ । १८ । केशात्समूहे यो वा स्यात् । कैश्यम् । कैशिकम् ॥ १८ ॥ वाऽश्वादीयः । ६ । २ । १९। अश्वात्समूहे ईयो वा स्यात् । अश्वीयम् । आश्खम् ||१९|| पर्वा ड्वण । ६ । २ । २० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy