SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७८ . हैमशब्दानुशासनस्य उदितगुरोर्भाधुक्तेऽब्दे । ६।२।५। उदितवृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्तायुक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् । पौषं वर्षम् ॥ ५॥ चन्द्रयुक्तात्काले लुप्त्वऽप्रयुक्ते ।६।२६। चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाद्यान्वायुक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः । अद्य पुष्यः ॥ ६॥ इन्द्वादीयः।६।२।७। चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाहान्तायुक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ॥ ७॥ श्रवणाऽश्वत्थानाम्न्यः ।६।२।८। चन्द्रयुक्तार्थाच्छ्रवणादश्वत्थाच टान्तायुक्ते कालेऽर्थे संज्ञायामः स्यात्। श्रवणा रात्रिः । अश्वत्था पौर्णमासी । नानीति किम् श्रावणमहः । आश्वत्थमहः ॥ ८॥ षष्ठ्याः समहे । ६।२।९। षष्ठ्यन्तात्समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः। चाषम्। स्त्रैणम्॥९॥ भिक्षादेः।६।२।१०। एभ्यः षष्ठयन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् । मैक्षम् । गार्भिणम् ॥१०॥ क्षुद्रकमालवात्सेनानाम्नि ।६।२।११। अस्मात्षष्ठयन्तात्समूहऽण स्यात् सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ॥ ११॥ गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराज
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy