________________
स्वोपज्ञलघुवृत्तिः ।
३७७
प्राच्ये ऽञोऽतौल्वल्यादेः । ६ । १ । १४३ ।
प्राच्यगोत्रे ऽञन्तात्तौवल्यादिवर्जाद यूनि प्रत्ययस्य लुप् स्यात् । पान्नागारिः पिता । पान्नागारिः पुत्रः । मान्थरेषणिः पिता । मान्थरेषणिः पुत्रः । प्राच्य इति किम । दाक्षिः पिता । दाक्षायणः पुत्रः । तौल्वल्यादिवर्जनं किम् । तौलिः पिता । तौल्वलायनः पुत्रः ॥ १४३ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः समाप्तः ॥
अर्हम
रागाहो रक्ते । ६ । २।१।
रज्यते येन कुसुम्भादिना तदर्थातृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् । कौसुम्भं वासः ॥ १ ॥
लाक्षारोचनादिकण । ६ । २ । २ ।
आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण स्यात् । लाक्षिकम् । रौचनिकम् || २ ||
शकर्द्दमाद्वा । ६।२।३।
आभ्यां यन्ताभ्यां रक्तमित्यर्थे इकण वा स्यात् । शाकलिकम् । शाकलम् । कामिकम् । कामम् || ३ ||
नीलपीतादकम् । ६।२।४।
आभ्यां दान्ताभ्यां रक्तमित्यर्थे यथासङ्ख्यमकौ स्याताम् । नीलम् । पीतकम् ॥ ४ ॥
४८