________________
३७६
हैमशब्दानुशासनस्य इयं द्वन्द्वात्मागजितीये विवाहे योऽकल्तस्मिन्नणो लुबऽभावः स्यात् । गर्गमार्गविका ॥ १३६ ॥
यूनि लुप । ६।१।१३७। यून्युत्पन्नस्य प्रत्ययस्य प्रागजितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुप स्यात्, लुपि सत्यां यः प्राप्नोति स स्यात् । पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाण्टाहृतः, तस्यच्छात्राइति प्रागजितीयेऽर्थे स्वरादौ चिकीर्षिते णस्य लुप, ततोवृद्धेत्र इत्यऽन् । पाण्टाहृताः ॥ १३७॥
वायनणायनियोः । ६।१।१३८ ।
अनयोयुवार्थयोः प्राग्जितीये स्वरादौ विषये लुब् वा स्यात । गार्गीयाः। गार्गायणीया वा। हौत्रीयाः । हौत्रायणीया वा ॥ १३८ ॥
द्रीनोवा ।६।१।१३९ । __द्रीअन्तात्परस्य युवार्थस्य लुब् वा स्यात् । औदुम्बरिः। औदुम्बरायणो वा ॥ १३९॥
जिदार्षादाणिोः । ६।१।१४०। त्रिदार्षश्व योऽपत्यप्रत्ययस्तदन्नात्परस्य यून्यऽण इञश्च लए स्यात्। तैकायानः पिता । तैकायनिः पुत्रः । वाशिष्ठः पिता । वाशिष्ठः पुत्रः १४०॥
अबाह्मणात् । ६।१।१४१ । अब्राह्मणादृद्धप्रत्ययान्ताद् युवार्थस्य लुप स्यात् । आङ्गः पिता। आङ्गः पुत्रः। अब्राह्मणादिति किम् । गार्ग्यः पिता । गाायणः पुत्रः॥
पैलादेः । ६।१।१४२ । एभ्योयूनि प्रत्ययस्य लुप स्यात्। पैलः पिता। पैलः पुत्रः। शालङ्किः पिता। शालङ्गिः पुत्रः ॥ १४२ ॥