________________
पज्ञलघुवृतिः
वोपकाः । ६ । १ । १३० ।
एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्यस्तस्याऽस्त्रियां लुप स्यात् वा । उपक्काः । औपकायनाः । लमकाः । लामकायनाः ॥ १३०॥ तिककितवादी द्वन्द्वे । ६ । १ । १३१ । एषु द्वन्द्वेषु बहुगोत्रार्थेषु यः सप्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । तिककितवाः । उब्जककुभाः ॥ ३१ ॥
द्र्यादेस्तथा । ६ । १ । १३२ ।
३७६
द्रादिप्रत्ययान्तानां द्वन्द्वे बह्नर्थे यः सद्रयादिस्तस्य लुप स्यात्, तथा यथापूर्वम् । वृकलोहध्वजकुण्डी विसाः । तथेति किम् । गार्गीवत्सवाजाः । तत्राः स्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् ।। १३२ ।। वाऽन्येन । ६ । १ । १३३ ।
यादेरन्येन सह द्रादीनां द्वन्द्वे बह्नर्थे यः सद्रयादिस्तस्य तथा वा लुप् स्यात् यथापूर्वम् । अङ्गवङ्गदाक्षयः । आङ्गवाङ्गदाक्षयः ॥ १३३॥
द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेव । ६।१।१३४ ।
षष्ठीतत्पुरुषे यत्पदं षष्ठ्याविषये द्वयोरेकस्मिंश्च स्यात्तस्ययः सयजादिस्तस्य तथा वा लुप् स्यात् । गर्गकुलम् । गार्ग्यकुलम् । विकुलम् | वैदकुलम् । येष्विति किम् । गर्गाणां कुलं गर्गकुलम् ॥ १३४ ॥
न प्रागजितीये स्वरे । ६ । १ । १३५ ।
गोत्रे उत्पन्नस्य बहुष्वित्यादिना या लुबुक्ता सा प्राग़ जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् । गार्गीयाः । आत्रेयीयाः । प्राजितीय इति किम् । अत्रीयः । स्वर इति किम् । गर्गमयम् ॥ १३५ ॥
गर्गभार्गविका । ६ । १ । १३६ ।