________________
७४
हेमशम्दानुशासनस्य बहुष्वऽस्त्रियाम् । ६।१।१२४। द्रयन्तस्य बह्वर्थस्य याद्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चालाराजानोऽपत्यानि वा । अस्त्रियामिति किम् । पाञ्चाल्यः ॥१२४॥ . यस्कादेगोत्रे।६।१।१२५।
एभ्योयः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेयः प्रत्ययस्तस्या ऽस्त्रियां लुप् स्यात् । यस्काः। लह्याम गोत्रइति किम्। यास्काश्छात्रा। याऽमोऽश्यापर्णान्तगोपवनादेः।६।१।१२६।
याऽञन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्या ऽस्त्रियां लुप स्यात्, नतु श्यापर्णान्तेभ्योगापवनादिभ्यः । गर्गाः। विदाम अश्यापर्णेत्यादीति किम् । गौपवनाः ॥ १२६॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती
च। ६।१।१२७॥ अनयोर्बहुगोत्रार्थयोर्यत्रोऽणश्वास्त्रियां लुप स्यात् , कुण्डिन्यागस्त्ययाः कुण्डिनागस्तीचादेशौ । कुण्डिनाः। अगस्तयः ॥१२७॥ भृग्वाङ्गिरस्कुत्सवशिष्ठगौतमाऽत्रेः।३।१।१२८॥
एम्योयः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः । अङ्गिरसः । कुत्साः। वशिष्ठाः। गोतमाः। अत्रयः॥ प्राग्भरते बहुस्वरादिनः।६।१।१२९ ।
बहुखराद्य इस तदन्तस्य बहुप्रागभरतगोत्रार्थस्य यः प्रत्ययस्तस्या ऽस्त्रियां लुप् स्यात् । क्षीरकलम्भाः। उद्दालकाः। प्राग्भस्त इति किम् । बालाकयः । बहुस्वरादिति किम् । चैकयः ॥१२९॥