SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सोपालघुवृत्तिः। सालाजनपदस्तदंशेभ्यःप्रत्यग्रथादेश्च सरूपराष्ट्रक्षत्रियार्थेभ्यो यथा सङ्ख्यं राजापत्येच द्रिरिज्ञ स्यात् । आदुम्बरिः राजाऽपत्यंवा । एवं प्रात्य. प्रथिः । कालकूटिः । आश्मकिः ॥ ११७ ॥ दुनादिकुर्वितकोशलाजादाञ्यः ।६।१।११८। दुभ्योनादेः कुरोरिदन्तेभ्यः कोशलाजादाभ्यां च सरूपराष्ट्रक्षत्रियेभ्यो यथासङ्ख्यं राजापत्येच दियःस्यात् । आम्बष्ठ्यो राजाऽपत्यं वा । एवं नैषध्यः। कौरव्यः । आवन्त्यः । कौशल्यः । आजाद्यः ॥ ११८॥ - पाण्डोडर्यण । ६।१।११९। पाण्डोराष्ट्रक्षत्रियार्थात्सरूपाद्यथासङ्ख्यं राजाऽपत्येच दियण स्यात् ॥ पाण्डयो राजाऽपत्यं वा ॥११९॥ शकादिभ्यो द्रेलुप् । ६।१ । १२० । एभ्यः परस्य दिसंज्ञकस्य लुए स्यात् । शको राजाऽपत्यं वा । एवं यवनः ॥ १२० ॥ कुन्त्यवन्तेः स्त्रियाम् । ६।१।१२१। आभ्यां परस्य द्रेय॑स्य लुप् स्यात् स्त्रियामर्थे । कुन्ती अपत्यम् । एवमवन्ती । स्त्रियामिति किम् । कौन्त्यः ॥ १२१॥ कुरोर्वा । ६।१ । १२२ । कुरोर्यस्य स्त्रियां लुप् वा स्यात् । कुरुः अपत्यम् । कौरव्यायणी राजाऽपत्यं वा ॥१२२॥ देरऽञणोऽप्राच्यभर्गादेः ।६।१।१२३ । पाच्यान भर्गादींश्च मुक्त्वाऽन्यस्मादयोऽणश्च द्रेः स्त्रियां लुप् स्यात्। शूरसेनी अपत्यम् । एवं मद्री । प्राच्यादिवर्जनं किम्। पाचाली। मार्गी॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy