SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। श्वशुराद्यः । ६।१। ९१ । अस्मादपत्ये यः स्यात् । श्वशुर्यः ॥ ९१॥ जातौ राज्ञः।६।१ । ९२। राज्ञोऽपत्ये जातौ गम्यायां यः स्यात् । राजन्यः, क्षत्रीया जातिश्वेत् ॥९२॥ क्षत्रादियः। ६।१।९३। क्षत्रादपत्ये जातावियः स्यात् । क्षत्रियो जातिश्चेत् ॥ ९३ ॥ मनोयाणौ षश्चान्तः।६।१।९४ । मनोरपत्य याणौ स्यातां तद्योगे पश्चान्तः जातो गम्यायाम् । मनुष्याः । मानुषाः॥९४॥ माणवः कुत्सायाम् । ६।१। ९५ । मनोरपत्येऽणि कुत्सायां नो णः स्यात् । मनोरपत्यं मढं माणवः । कुलादीनः । ६।१।९६ । कुलान्तात्केवलकुलाचाऽपत्ये ईनः स्यात् । बहुकुलीनः। कुलीनः॥१६॥ यैयकावसमासे वा।६।१। ९७। कुलान्तात्कुलाचाऽपत्ये यएयकञ् वा स्यात् न चेदसौ समासे । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः। बाहुकुलेयकः। बहुकुलीनः । असमास इति किम् । आढ्यकुलीनः॥ ९७॥ दुष्कुलादेयण्वा।६।१। ९८ । अस्मादपत्ये एयण् वा स्यात् । दौष्कुलेयः । दुष्कुलीनः ॥९८॥ महाकुलाहाऽजीनो। ६।१। ९९ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy