________________
हैमशन्दानुशासनस्य जण्टपण्टात् । ६।१।८२। आभ्यामपत्ये णारः स्यात् । जाण्टारः । पाण्टारः ॥ ८२ ॥ चतुष्पाद्भय एयञ् । ६।१। ८३। चतुष्पात् वाचिभ्योऽपत्ये एयज्ञ स्यात् । कामण्डलेयः ॥ ८३ ॥ __ गृष्टयादेः । ६।१।८४। एभ्योऽपत्ये एयज्ञ स्यात् । गार्टेयः । हार्टेयः ॥८४॥
वाडवेयोवृषे ।६।१। ८५ । वडवाया वृषेऽर्थे एयज्ञ एयण वा निपात्यते । वाडवेयः ॥ ८५॥
रेवत्यादेरिकण । ६।१।८६ । एभ्योऽपत्ये इकण स्यात् । रैवतिकः । आश्वपालिकः ॥ ८६ ॥ वृद्धस्त्रियाः क्षेपे णश्च । ६।१।८७।
वृद्धप्रत्ययान्तात् स्त्रियामपत्ये णेकणौ स्यातां क्षेपे गम्ये । गाग्र्योयुवा गार्गः गार्गिको वा जाल्मः ॥ ८७॥
भ्रातुर्व्यः । ६।१।८८। भ्रातुरपत्ये व्यः स्यात् । भ्रातृव्यः ॥ ८८॥
ईयः स्वसुश्च। ६।१।८९। भ्रातुः स्वमुश्चापत्ये ईयः स्यात् । भ्रात्रीयः। स्वस्त्रीयः ॥८९॥ मातृपित्रादेर्डेयणीयणौ । ६।१।९०।
मातृपितृशब्दावादीयस्य स्वसन्तस्य तस्मादपत्ये डेयणीयणौ स्याताम्। मातृष्वस्रयः । मातृष्वतीयः । पैतृष्वज्ञेयः । पैतृष्वतीयः ॥ २० ॥