________________
स्वोपज्ञलघुवृत्तिः।
३६७ - श्यामलक्षणाद्वाशिष्ठे । ६।१। ७४।
आभ्यां वाशिष्ठेऽपत्ये एयण स्यात् । श्यामेयो लाक्षणेयो वाशिष्ठः।। विकर्णकुषीतकात्काश्यपे ।६।१।७५।
आभ्यां काश्यपेऽपत्ये एयण स्यात् । वैकर्णेयः । कौषीतकेयः काश्यपः ॥ ७५॥
भुवोभ्रुवच । ६।१। ७६ । भ्रुवोऽपटे एयण स्यात् भ्रुवश्च ध्रुव । भ्रौवेयः ॥ ७६ ॥ कल्याणादेरिन्चान्तस्य ।६।१।७७।
एभ्योऽपत्ये एयण स्यादन्तस्यचेन् । काल्याणिनेयः । सौभागिनेयः ॥ ७७ ॥
कुलटाया वा । ६।१। ७८ । अस्मादपत्ये एयण स्यात्तद्योगे चान्तस्येन्वा। कौलटिनेयः । कौलटेयः ॥ ७८॥ चटकाण्णैरः स्त्रियां तु लप।६।१।७९। अस्मादपत्ये गैरः स्यात् स्त्र्यर्थस्य च गैरस्य लुप् । चाटकरः। चटकाः॥
क्षुद्राभ्य एरण वा।६।१।८०।
अङ्गहाना अनियतपुंस्कावा स्त्रियः क्षुद्राः, क्षुद्रार्थेभ्यः स्त्रीभ्य एरण्या स्यात् । काणेरः । काणेयः । दासेरः । दासेयः ॥ ८० ॥
गोधाया दुष्टे णारश्च ।६।१।८१ । __गोधाया दुष्टेऽपत्ये णार एरण् च स्यात् । गौधारः। गौधेरः,गोधाया- . महिजातः ॥ ८१ ॥