SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य संख्यार्थात्सम्भद्राभ्यां च परोयो माता तदन्तादपत्येऽण् स्यात् मातुश्च मातुर् । द्वैमातुरः । सांमातुरः । भाद्रमातुरः || ६६ ॥ अदोर्नदीमानुषीनाम्नः । ६ । १ । ६७ । ३६६ अदुसंज्ञान्नदीनाम्नो मानुषीनाम्नश्चापत्येऽण् स्यात् । यामुनः प्रणेता । दैवदत्तः । अदोरिति किम् । चान्द्रभागेयः ॥ ६७ ॥ पीला साल्वामण्डूकाद्वा । ६ । १ । ६८ । ऽपत्ये वा स्यात् । पैलः । पैलेयः । साल्वः । साल्वेयः । माण्डूकः । माण्डूकः ॥ ६८ ॥ दितिश्चैयण वा । ६ । १ । ६९ । दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् । दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकि: ।। ६९ ।। ङयाप्त्यूङः । ६ । १ । ७० । उयन्तादावन्तात्यन्तादूङताञ्चापत्ये एयण् स्यात् । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः ॥ ७० ॥ द्विस्वरादनद्याः । ६ । १ । ७१ । द्विस्वराद् ङगप्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् दात्तेयः। अनद्या इति किम् । सैप्रः ॥ ७१ ॥ इतोऽनिञः । ६ । १ । ७२ । इञ्वर्जेदन्ताद् द्विस्वरादपत्ये एयण स्यात् । नाभेयः । अनि इति किम् । दाक्षायणः । द्विस्वरादित्येव । मारीचः ॥ ७२ ॥ शुभ्रादिभ्यः । ६ । ९ । ७३ । एम्योऽपत्ये एयण स्यात् । शौभ्रेयः । वैष्टपुरेयः ॥ ७३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy