SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृतिः । ३६५ आभ्यां वृद्धे आयन वा स्यात् । जैवन्तायनः जैवन्तिः । पार्वतायनः । पार्वतिः ॥ ५८ ॥ द्रोणाद्वा । ६ । १ । ५९ । द्रोणात्या आनण वा स्यात् । द्रौणायनः । द्रौणिः ॥ ५९ ॥ शिवादेरण । ६ । १ । ६० । शिवादेरपत्येऽण् स्यात् । शैवः । प्रौष्ठः ॥ ६० ॥ ऋषिवृष्ण्यन्धककुरुभ्यः । ६ । १ । ६१ । ऋष्यादिवाचिभ्यो ऽपत्ये ऽण स्यात् । वाशिष्ठः । वासुदेवः । खाफल्कः । नाकुलः ॥ ६१ ॥ कन्यात्रिवेण्याः कनीनत्रिवणं च |६|१|६२ श अभ्यामपत्येऽण् स्याद्यथासङ्ख्यं कनीनत्रिवणौ चादेशौ । कानीनः । वणः ॥ ६२ ॥ शुङ्गाभ्याम्भारद्वाजे । ६ । १ । ६३ । शुङ्गशुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् । शौङ्गो भारद्वाजः || ६३ ॥ विकर्णच्छगलाद्वात्स्यात्रेये । ६ । १ । ६४ । आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण् स्यात् । वैकर्णीवात्स्यः । छागल आत्रेयः ॥ ६४ ॥ णश्च विश्रवसोविश्लुक्च वा । ६ । १ । ६५ । विश्रवसोऽपत्येऽण् स्यात् तद्योगे च णः णयोगे च विशोलुक्च वा । वैश्रवणः रावणः ॥ ६५ ॥ सङ्ख्यासंभद्रान्मातुर्मातुच । ६ । १ । ६६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy