SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य आत्रेयाद्भारद्वाजे । ६ । १ । ५२ । अस्माद्भारद्वाजे यून्यायनज्ञ स्यात् । आत्रेयायणो भारद्वाजः ॥ ५२ ॥ नादिम्यो आनण । ६ । १ । ५३ । एभ्योवृद्धे आयनण् स्यात् । नाडायनः । चारायणः ॥ ५३ ॥ यञिञः । ६ । १ । ५४ । वृद्धे यो यत्रो तदन्तान्यायनण् स्यात् । गार्ग्यायणः । दाक्षायणः ।। ५४ ।। ३६४ हरितादेरञः । ६ । १ । ५५ । वृद्धोयोऽञ् तदन्ताद्धरितादेर्युन्यायन‍ स्यात् । हारितायनः । कैन्दासायनः ॥ ५५ ॥ क्रोष्टृशलङ्कोर्लुक्च । ६ । १ । ५६ । आभ्यां वृद्धे आयन स्यात् लुक्चान्तादेशः । कौष्टायनः । शालङ्कायनः ॥ ५६ ॥ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणत्राह्मणवार्षगण्यवाशिष्ठभार्गव वात्स्ये । ६ । १ । ५७ । एम्यो यथासङ्करूयमेषु वृद्धेष्वायनण स्यात् । दार्भायण आमाश्वेत । काष्णीनो ब्राह्मणः । आग्निशर्मायणी वार्षगण्यः । राणायनो वाशिष्ठः । शारद्वतायनो भार्गवः । शौनकायनोवात्स्यः ॥ ५७ ॥ जीवन्तपर्वताद्वा । ६ । १ । ५८ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy