________________
३६२
हैमशन्दानुशासनस्य स्लुक्च।६।१। ३६ । एभ्योऽपत्ये इन स्यात् सोलुक् च । भौयिः । साम्भूयिः। आम्भिः। आमितौजिः ॥ ३६॥ शालङ्क्यौदिषाडिवाइवलि ।।१॥३७
एतेऽपत्येऽञन्ता निपात्यन्ते । शालङ्किः । औदिः । षाडिः । वाइवलिः ॥ ३७॥ व्यासवरुटसुधातृनिषादबिम्बचण्डालाद
न्तस्य चाक् ।६।१ । ३८ । एभ्योऽपत्ये इञ् स्यात्तद्योगे चैषामन्तस्याक् । वैयासकिः । वारुटकिः । सौधातकिः । नैषादकिः। बैम्बकिः । चाण्डालकिः ॥ ३८॥ पुन पुत्रदुहितृननान्दुरनन्तरेऽ।६।१।३९। । एभ्यः षष्ठयन्तेभ्यो ऽनन्तरे ऽपत्येऽञ् स्यात् । पौन वः । पौत्रः । दौहित्रः । नानान्द्रः ॥३९॥ परस्त्रियाः परशुश्वाऽसावर्थे ।६।१।४।
परस्त्रिया अनन्तरेऽपत्येऽञ् स्यात्तद्योगेऽस्य परशुश्च नचेदसौ पुंसा सजातीया। पारशवः। असावर्ण्य इति किम् । पारस्त्रैणेयः ॥४०॥
विदादेवृद्धे । ६।१।४१ । एभ्योवृद्धेऽपत्येऽज्ञ स्यात् । वैदः । और्वः ॥ ४१॥
गर्गादेर्यञ् । ६।१।४२। एभ्यः षष्ठ्यन्तेभ्यो वृद्धे ऽपत्ये यञ् स्यात् । गार्ग्यः । वात्स्यः॥४२॥ मधुबभ्रोर्ब्राह्मणकौशिके।६।१।४३।