SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिा। ____३६१ आद्यात् । ६।१।२९। अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः । तस्याप्यौपगविः। औपगवेरप्यौपगवः ॥ २९॥ वृद्धाधनि । ६।१।३०। - यून्य पत्ये यः प्रत्ययः स आद्याद् वृद्धाद्योवृद्धप्रत्ययस्तदन्तात् स्यात् । गार्ग्यस्यापत्यं युवा गाायणः ॥ ३०॥ अत इ । ६।१।३१। अद तात्पष्ठयन्तादपत्ये इन्स्यात् । दाक्षिः ॥ ३१ ॥ बाहादिभ्यो गोत्रे ।६।१।३२। स्खापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम्, एभ्यः षष्ठयन्तेभ्योगोत्रेऽर्थे इन स्यात् । बाहविः । औपबाहविः ॥ ३२ ॥ वर्मणोऽचक्रात् ।६।१।३३ । चकवर्जात्परोयो वर्मा तदन्तादपत्येऽर्थे इञ् स्यात् । ऐन्द्रवर्मिः। अचकादिति किम् । चाक्रवर्मणः ॥ ३३॥ अजादिभ्यो धेनोः । ६।१।३४। एभ्यः परोयोधेनुस्तदन्तादपत्यार्थे इश् स्यात् । आजधेनविः । बाष्कधेनावः ॥ ३४॥ ब्राह्मणाद्वा।६।१।३५ । ब्राह्मणाद्योधेनुस्तदन्तादपत्येऽर्थे इञ् वा स्यात् । ब्राह्मणधेनविः । ब्राह्मणधेनवः ॥ ३५॥ भूयःसम्भूयोऽम्भोऽमितौजसः '१६
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy