________________
... ३६०
हेमशब्दानुशासनस्य देवात् प्रागजितीयेऽर्थे ऽनिदम्यणपवादे च यत्रऽऔ स्याताम्। दैव्यम्। दैवम् ॥ २१ ॥
अः स्थाम्नः।६।१ । २२ । स्थाम्नः प्रागजितीयेऽर्थे अः स्यात् । अश्वत्थामः ॥ २२ ॥
लोम्नोऽपत्येषु । ६।१।२३। लोम्नः प्रागजितीयेर्थे बह्वपत्याऽर्थे अः स्यात्। उडुलोमाः। बहुवचनं किम् । औडुलोमिः ॥२३॥ द्विगोरनपत्ये यस्वरादे बहिः।६।१।२४। ___ अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य दिगोः परस्य यादेः स्वगदेश्च प्रत्ययस्य लुप स्यात् नतु द्विः। द्विरथः । पञ्चकपालः। अनपत्य इति किम् ॥ द्वैमातुरः । अद्विरिति किम् । पाञ्चकपालम् ॥ २४ ॥
प्रागवतः स्त्रीपुंसानझस्नन ।६।१।२५। - चतो गर्थेष्वऽनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नज्ञ स्ना च स्यात् । स्त्रैणः। पौस्नः । प्राग्वत इति किम् । स्त्रीवत् ॥ २५॥
त्वे वा।६।१।२६ । स्त्रीपुंसाभ्यां त्वेविषये यथासङ्ख्यं नझस्नौ वा स्याताम् । स्त्रैणम्। स्त्रीत्वम् । पौस्नम् । पुंस्त्रम् ॥ २६ ॥
गोः स्वरे यः।६।१।२७। गोः स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम् । स्वर इति किम् । , गोमयम् ॥ २७ ॥
ङसोऽपत्ये।६।१।२८। षष्ठयन्तादपर्येऽर्थे यथाविहितमणादयः स्युः। औपगवः । दैत्यः।२८।