________________
स्वोपज्ञलघुवृत्तिः । .. अनिदम्यणपवादे च दित्यदित्यादित्ययम
पत्युत्तरपदाञ्यः । ६।१ । १५ ।
एभ्यः प्रजितीयेऽर्थे इदं वर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ज्यः स्यात् । दैत्यः। आदित्यः। आदित्य्यः। याम्यः । वार्हस्पत्यः । . अनिदमीति किम् । आदित्यस्येदं आदितीयं मण्डलम् ॥ १५ ॥
बहिषष्ठीकण्च । ६।१।१६। बहिषः प्राग्जितीयेऽर्थे टीकण् ज्यश्च स्यात् । बाहीकः । बाह्यः ॥१६॥
कल्यग्नेरेयण् । ६।१।१७। आभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे चैयण स्यात् । कालेयम् ।। आनेयम् ॥ १७॥
पृथिव्याञाञ् । ६।१।१८। पृथिव्याः प्राग्जितीयेऽर्थे ऽनिदम्यणपवादे च जा ऽऔ स्याताम् । पार्थिवा । पार्थिवी ॥१८॥
उत्सादेर । ६।१।१९। अस्मात्यागजितीयेऽर्थेऽनिदम्यणपवादेचाऽञ् स्यात् । औत्सः । औदपानम् ॥ १९ ॥
बष्कयादसमासे । ६।१ । २० ।
असमासवृत्तेर्बष्कयात् प्राजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात्। बाष्कयः। असमास इति किम् । सौबष्कयिः ॥ २० ॥
देवाधन च ।६।१।२१।