SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३५८ . हैमशब्दानुशासनस्य यस्य स्वराणामादिः स्वरोवृद्धिः स दुःस्यात् । आम्रगुप्तायनिः॥८॥ एदोदेशएवेयादौ ।६।१ । ९ । देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधेये दुः स्यात् । सैपुरिका । सैपुरिकी । स्कौनगरिका । स्कौनगरिकी ॥९॥ प्राग्देशे।६।१।१०। .. प्रागदेशार्थस्य स्वरेष्वादिरेदोच स ईयादौ कार्ये दुःस्यात् । एणीपचनीयः । गोनर्दीयः ॥ १०॥ वाऽऽद्यात् । ६।१ । ११ । वेत्याद्यादिति च द्वयमधिकृतं स्यात् । तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि । सूत्रादौ च निर्दिष्टात्मत्ययः ॥ ११ ॥ गोत्रोत्तरपदाद्गोत्रादिवाजिहाकात्यहरित कात्यात्। ६।१ । १२ । गोत्रमपत्यं जिह्वाकात्यहरितकात्य वर्जाद् गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः स्यात्। यथा चारायणीयास्तथाकम्बलचारायणीयाः। अजिढत्यादीति किम् । यथेहेयः कातीयाः न तथा जैह्वाकाताः, हारितकाताः ॥१२॥ प्रागजितादण् । ६।१।१३। प्राग्जितोक्तेः पादत्रयं यावद्येऽर्थास्तेष्वण वा स्यात् । औपगवः माञ्जिष्ठम् ॥ १३ ॥ धनादेः पत्युः। ६।१।१४। धनादेः परोयः पतिस्तदन्तात्मागजितीयेऽर्थेऽण् स्यात् । धानपतम आश्वपतः ॥१४॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy