________________
हेमशब्दानुशासनस्य
इच्छार्थे कर्मणः सप्तमी । ५ । ४ । ८९ ।
इच्छार्थे धातावुपपदे तुल्यकर्तृकार्यात्कर्मभूताद्धातोः सप्तमी स्यात् । भुञ्जीयेति इच्छति । इच्छार्थ इति किम् । भोजकोयाति । कर्मण इति किम् । इच्छन् करोति ॥ ८९ ॥
३५६
शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् । ५ । ४ । ९० ।
शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु नामसूपपदेषु कर्मभूताखातोस्तुम् स्यात् । शक्नोति पारयति वा भोक्तुम् । एवं धृष्णोति जानाति आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥ ९० ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमाध्यायः समाप्तः ॥