________________
स्वोपज्ञलघुत्तिः। सम्बन्धे क्वाणमौ स्याताम् । ब्राह्मण पुत्रस्ते जात किं तर्हि वृषल नीचैः कृत्वा, नीचैःकृत्य,नीचैःकारं कथयसि, उच्चै म प्रियमाख्येयम् । अनिष्टोताविति किम् । उच्चैःकृत्वाऽऽचष्टे ब्राह्मण पुत्रस्ते जात इति । अव्ययेनेति किम् । ब्राह्मण पुत्रस्तेजातः किं तर्हि वृषल मन्दं कृत्वा कथयसि ॥८४ ॥
तिर्यचाऽपवर्गे । ५।४। ८५। क्रियासमाप्तौगम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगोधातोः संबन्धे क्त्वाणमौ स्याताम् । तिर्यक्कृत्वा, तिर्यकृत्य, तिर्यकारमास्ते । अपळ इति किम् । तिर्यकृत्वा काष्ठं गतः ॥ ८५॥
स्वाङ्गतश्च्व्यर्थनानाविनाधार्थेन
भवश्च । ५।४।८६ । तसन्तेन स्वाङ्गेन व्यर्थवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थान् भुवः कृगश्च धातोः संबन्धे क्त्वाणमौ स्याताम् । मुखतोभूत्वा । मुखतीभूय । मुखतोभावमास्ते। नाना भूत्वा, नानाभूय, नानाभावं गतः। विनाभूत्वा, विनाभूय, विनामावं गतः। द्विधा भूत्वा, विधा.. भूय, द्विधाभावमास्ते । एवं पर्खतः कृत्वा, पार्श्वतःकृत्य, पार्श्वतः कारं शेते इत्यादि । च्व्यर्थ इति किम् । नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥६॥
तृष्णीमा। ५।४। ८७। तूष्णीं योगे तुल्यकर्तृकार्थात् भुवो धातोःसम्बन्धे क्वाणमौ स्याताम् । तूष्णीं भूत्वा । तूष्णीभूय । तूष्णीभावमास्ते ॥ ८७ ॥
आनुलोम्येऽन्वचा ।५।४।८८।
अन्वचाऽव्ययेन योगे तुल्यककार्थात् भुव आनुलोम्ये गम्ये धातोः सम्बन्धे क्वाणमौस्याताम् । अन्वंग्भूत्वा,अन्वम्भूय, अन्वग्भावमास्ते। बानुलोम्य इति किम् । अन्नग्भुत्ता विजयते । पश्चाभूत्वेत्यर्थः ॥८॥