________________
हैमशब्दानुशासनस्य परिक्लेश्येन । ५।४।८०। __ परिक्लेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य कर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात् । उरांसि प्रतिपेषं उरम्प्रतिपेषम् । उरांसि प्रतिपेष्य वा युध्यन्ते ॥ ८ ॥ विशपतपदस्कन्दोवीप्साभीक्ष्ण्ये ।५।४।८१॥
द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्विशादेवींप्साभीक्ष्ण्ययोर्गम्ययोर्धातोः सम्बन्धे णम्वा स्यात् । मेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते। गेहमतु प्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते । मेहं गेहमनुप्रपातं गेहानुप्रणतमास्ते । गेहेमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते । गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमान्ते । पक्षे । गेहं गेहमनुपविश्यास्ते । गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि ॥ ८१ ॥ कालेन तृष्यस्वः क्रियान्तरे ।५।४/८२।
क्रियाव्यवधायकार्थाभ्यां तृष्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे धातोःसम्बन्धे णम्वा स्यात् । यहंतर्ष यहतर्ष गावः पिबन्ति । यहमत्यासं यहात्यासं गावः पिबन्ति । क्रियान्तर इति किम् । अहरत्य स्पेषून गतः ॥ ८२॥
नाम्ना ग्रहादिशः । ५।४। ८३। . ____ नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकार्थात् अहेरादिशेश्व धातोः सम्बन्धे णम्वा स्यात् । नामानि ग्राहं नामग्राहमाह्वयति । नामान्यादेशं नामादेशं दत्ते । पक्षे । नाम गृहीत्वा दत्ते ॥ ८३ ॥ कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वाणमौ।५।४।८४।
अव्ययेन योगे तुल्यकर्तृकार्थात्कृगोपनिष्टोक्तो गम्यायां धातोः