________________
स्वोपज्ञलघुपतिः। तया तृतीयया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकार्थेभ्योधातोः संबन्धे णम्वा स्यात् । पार्थाभ्यामुपपीडं पार्थोपपीडं शेते। पार्श्वयोरुपपीडं पाोपपीडं शेते । ब्रजेनोपरोधं व्रजोपरोधम्। बजे उपरोधं ब्रजोपरोधं गाः स्थापयति । पाणिनोपकर्ष पाण्युपकर्षम् । पाणावुपकर्ष गण्युपकर्ष गृह्णाति ॥ ७५ ॥.. प्रमाणसमासत्त्योः । ५।४। ७६ ।
आयाममानंप्रमाणं, समासत्तिः संरम्भपूर्वकः सन्निकर्षः,तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद्धातोः संबन्धे णम्वा स्यात् । य?लेनोत्कर्ष यङ्गुलोत्कर्षम् । यङ्गुले उत्कर्ष ड्यङ्गुलोत्कर्ष गण्डिकाश्छिनत्ति । केशैहिं केशग्राहं । केशेषु ग्राहं केशग्राहं युध्यन्ते । पक्षे । दयङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति ॥ ७६ ॥
पञ्चम्या त्वरायाम् । ५।४। ७७।
त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात् । शय्याया उत्थायं शय्योत्थायं धावति । पक्षे। शय्याया उत्थाय धावति । खरायामिति किम् । आशनादुत्थाय याति ॥ ७७॥
द्वितीयया ।५।४। ७८ । द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात्। लोष्टान्ग्राहं लोष्टग्राहम् । लोष्टान् गृहीत्वा युध्यन्ते।।७८॥
स्वाङ्गेनाऽधूवेण । ५।४। ७९।
यस्मिन्नङ्गे च्छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवं, तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्बा स्यात् । भ्रुवो विक्षेपं भूविक्षेपम् । भ्रुवौविक्षप्य वा जल्पति । स्वाङ्गेनेति किम् । कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् । शिर उत्क्षिप्य वक्ति ॥ ७९ ॥
४५