________________
हैमशग्दानुशासनस्य आभ्यां कर्तृभ्यां पराद्यथासङ्ख्यं नशेवहेश्च तस्यैव संबन्धे णम्बा स्यात् । जीवनाशं नश्यति । पुरुषवाहं वहति । कर्तुरिति किम् । जीवेन नश्यति ।। ६९ ॥
ऊोत्पूः शुषः । ५।४। ७०। - कर्तुरूर्द्धात्परात्परः शुषश्च तस्यैव संबन्धे णम्वा स्यात् । ऊर्द्धपूरं पूर्यते। ऊर्द्धशोषं शुष्यति ॥ ७० ॥
। व्याप्याच्चेवात् । ५।४। ७१।र ध्याध्यात्कर्तुश्चोपमानात्पराद्धातोस्तस्यैव सम्बन्धे णम्वा स्यात् । सुवर्णनिधायं निहितः । काकनाशं नष्टः ॥ ७१ ॥
उपात्किरोलवने । ५।४। ७२ । उपपूर्वात्किरतेलवनार्थस्य धातोः सम्बन्धे णम्बा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम । उपकीर्य याति ॥७२॥
दशेस्तृतीयया ।५।४।७३ ।
तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वादंशेर्धातोः सम्बन्धे णम्वा स्यात् । मूलकेनोपदंशं, मूलकोपदंशम् । मूलकेनोपदंश्य भुङ्क्ते ।।७३ ॥ -हिंसादेकाप्यात् । ५।४। ७४।
हिंसार्थाद्धातोर्धात्वन्तरेणैकाण्यात्तुल्यकर्तृकार्थातृतीयान्तन योगे णम् वा स्यात्। दण्डेनोपघातं, दण्डोपघातम् । दण्डेनोपहत्य च गाःसादयति । एकाप्यादिति किम् । दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥ ७४॥ उपपीडरुधकर्षस्तत्सप्तम्या। ५।४।७५॥